|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.358. अध्यायः 358
Mahabharata - Shanti Parva - Chapter Topics
वैशम्पायनेन जनमेजयाय एकान्तिधर्मनिरूपणपूर्वकं लोके तत्प्रचारप्रकारप्रतिपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
जनमेजय उवाच। 12-358-0x(6635)(80344)
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः।
विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम्॥ 12-358-1(80345)
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः।
तेषां च या हि निर्दिष्टा पारम्पर्यागता गतिः॥ 12-358-2(80346)
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम्॥ 12-358-3(80347)
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः।
अगत्वा गतयतिस्रो यद्गच्छत्यव्ययं हरिम्॥ 12-358-4(80348)
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः।
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः॥ 12-358-5(80349)
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्।
केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा॥ 12-358-6(80350)
एकान्तिनां च का चर्या कदा चोत्पादिता विभो।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे॥ 12-358-7(80351)
वैशम्पायन उवाच। 12-358-8x(6636)
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे।
अर्जुने विमनस्के च गीता भगवता स्वयम्॥ 12-358-8(80352)
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः॥ 12-358-9(80353)
संमितः सामवेदेन पुरैवादियुगे कृतः।
धार्यते स्वयमीशेन राजन्नारायणेन ह॥ 12-358-10(80354)
एतदर्थं महाराज पृष्टः पार्थेन नारदः।
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः॥ 12-358-11(80355)
गुरुणा च मयाऽप्येव कथितो नृपसत्तम।
यथा तत्कथितं तत्र नारदेन तथा शृणु॥ 12-358-12(80356)
यदाऽऽसीन्मानजं जन्म नारायणमुखोद्गतम्।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्॥ 12-358-13(80357)
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत।
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे॥ 12-358-14(80358)
वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपदिरे।
वैखानसेभ्यः सोपस्तु ततः सोऽन्तर्दधे पुनः॥ 12-358-15(80359)
यदाऽऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप।
यदा पितामहेनैव सोमाद्धर्मः परिश्रुतः॥ 12-358-16(80360)
नारायणात्मको राजन्रुद्राय प्रददौ च तम्।
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप॥ 12-358-17(80361)
वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत्।
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया॥ 12-358-18(80362)
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत्।
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप॥ 12-358-19(80363)
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात्।
तपसा वै सुतप्तेन दमेन नियमेन च॥ 12-358-20(80364)
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्मसुत्तमम्।
यस्मात्तस्माद्व्रतं ह्येतत्रिसौपर्णमिहोच्येत॥ 12-358-21(80365)
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम्।
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः॥ 12-358-22(80366)
वायुना द्विपदश्रिष्ठे प्रथितो जगदायुषा।
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः॥ 12-358-23(80367)
तेभ्यो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम्।
अन्तर्दधे ततो भूयो नारायणसमाहृतः॥ 12-358-24(80368)
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः।
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु॥ 12-358-25(80369)
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम्।
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम्॥ 12-358-26(80370)
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः।
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः॥ 12-358-27(80371)
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा।
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत॥ 12-358-28(80372)
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः।
तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि॥ 12-358-29(80373)
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे।
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम्॥ 12-358-30(80374)
आरण्यकेन सहितं नारायणमुखोद्गतम्।
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे॥ 12-358-31(80375)
तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम्।
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्॥ 12-358-32(80376)
ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः।
असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान्॥ 12-358-33(80377)
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्।
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः॥ 12-358-34(80378)
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्।
पूजयामास देवेशं हरिं नारायणं प्रभुम्॥ 12-358-35(80379)
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः।
अध्यापयामास तदा लोकानां हितकाम्यया॥ 12-358-36(80380)
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप।
अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः॥ 12-358-37(80381)
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम्।
दिशापालं सुधर्माणमध्यापयत भारत।
सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः॥ 12-358-38(80382)
नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम।
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः॥ 12-358-39(80383)
तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा।
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप॥ 12-358-40(80384)
सनत्कुमारादपि च वीरणो वै प्रजापतिः।
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान्॥ 12-358-41(80385)
वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ।
रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे॥ 12-358-42(80386)
कुक्षिपालाय च ददौ विशालाय च धर्मिणे।
ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्गतः॥ 12-358-43(80387)
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये।
एष धर्मः समुद्भूतो नारायणमुखात्पुनः॥ 12-358-44(80388)
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि।
अध्यापिताश्च मुनयो नाम्ना बर्हिपदो नृप॥ 12-358-45(80389)
बर्हिषद्भ्यश्च संप्राप्तः सामवेदान्तगं द्विजम्।
ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः॥ 12-358-46(80390)
ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम्।
अन्तर्दधे ततो राजन्नेष दर्मः प्रभो हरेः॥ 12-358-47(80391)
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप।
तत्रैष धर्मः कथितः स्वयं नारायणेन ह॥ 12-358-48(80392)
पितामहाय शुद्धाय युगादौ लोकधारिणे।
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ॥ 12-358-49(80393)
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम।
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः॥ 12-358-50(80394)
त्रेतायुगादौ च ततो विवस्वान्ममवे ददौ।
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ॥ 12-358-51(80395)
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः।
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप॥ 12-358-52(80396)
यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम।
कथितो हरिगीतासु समासविधिकल्पितः॥ 12-358-53(80397)
नारदेन सुसंप्राप्तः सरहस्यः ससंग्रहः।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप॥ 12-358-54(80398)
एवमेव महान्धर्मे आद्यो राजन्सनातनः।
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा॥ 12-358-55(80399)
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः॥ 12-358-56(80400)
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते॥ 12-358-57(80401)
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा।
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः॥ 12-358-58(80402)
मनश्च प्रथितं राजन्पञ्चन्द्रियसमीरणम्।
एष लोकनिधिः श्रीमानेषु लोकविसर्गकृत्॥ 12-358-59(80403)
अकर्ता चैव कर्ता च कार्यं कारणमेव च।
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः॥ 12-358-60(80404)
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम।
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः॥ 12-358-61(80405)
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप।
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः॥ 12-358-62(80406)
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः।
भवेत्कृतयुगप्राप्तिराशीः कर्मविवर्जिता॥ 12-358-63(80407)
एवं स भगवान्व्यासो गुरुर्मम विशांपते।
कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः॥ 12-358-64(80408)
ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः।
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः॥ 12-358-65(80409)
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम्।
यत्र चैकान्तिनो यान्ति नारायणपरायणाः।
`तदेव परमं स्थानं मुक्तानां केवलं भवेत्॥' 12-358-66(80410)
जनमेजय उवाच। 12-358-67x(6637)
एवं बहुविधं धर्मं प्रविबुद्धैर्निषेवितम्।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः॥ 12-358-67(80411)
वैशम्पायन उवाच। 12-358-68x(6638)
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः।
सात्विकी राजसी चैव तामसी चैव भारत॥ 12-358-68(80412)
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह।
सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः॥ 12-358-69(80413)
अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम्।
नारायणां परं मोक्षे ततो वै सात्विकः स्मृतः॥ 12-358-70(80414)
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम्।
एकान्तभक्तः सततं नारायणपरायणः॥ 12-358-71(80415)
मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः।
तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः॥ 12-358-72(80416)
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः।
सात्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः॥ 12-358-73(80417)
साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः।
नारायणात्मके मोक्षे ततो यान्ति परां गतिं॥ 12-358-74(80418)
नारायणेन दृष्टस्तचु प्रतिबुद्धो भवेत्पुमान्।
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते॥ 12-358-75(80419)
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते।
तदात्मकं हि पुरुषं जायमानं विशांपते।
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम्॥ 12-358-76(80420)
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः।
रजसा तपसा चैव मानसं समभिप्लुतम्॥ 12-358-77(80421)
कामं देवाश्च ऋषयः सत्वस्था नृपसत्तम।
हीनाः सत्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः॥ 12-358-78(80422)
जनमेजय उवाच। 12-358-79x(6639)
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्।
वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम्॥ 12-358-79(80423)
वैशम्पायन उवाच। 12-358-80x(6640)
सुसूक्ष्मं तत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः।
पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम्॥ 12-358-80(80424)
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च।
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते॥ 12-358-81(80425)
एष एकान्तिनां धर्मो नारायणपरात्मकः॥ 12-358-82(80426)
यथा समुद्रात्प्रसृता जलौघा
स्तमेव राजन्पुनराविशन्ति।
इमे तथा ज्ञानमहाजलौघा
नारायणं वै पुनराविशन्ति॥ 12-358-83(80427)
एष ते कथितो धर्मः सात्वतो यदुबान्धव।
कुरुष्वैनं यथान्यायं यदि शक्तोसि भारत॥ 12-358-84(80428)
एवं हि स महाभागो नारदो गुरवे मम।
श्वेतानां यतिनां चाह एकान्तगतिमख्याम्॥ 12-358-85(80429)
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते।
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः॥ 12-358-86(80430)
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम।
यथैव त्वं तथैवान्ये न भजन्ति च मोहिताः॥ 12-358-87(80431)
कृष्ण एव हि लोकानां भावनो मोहनस्तथा।
संहारकारकश्चैव कारणं च विशांपते॥ ॥ 12-358-88(80432)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये अष्टपञ्चाशदधिकत्रिशततमोऽध्यायः॥ 358॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-358-2 दग्धेन्धनाः नष्टवासनाः। पारम्पर्यागता गुरुसंप्रदायागतागतिर्ज्ञानम्॥ 12-358-23 प्रथितो गदता पुरेति थ. पाठः॥ 12-358-25 यदा भूयस्तमश्चास्य बुद्धिरासीन्महात्मनः इति ट. पाठः॥ 12-358-26 जगत्सर्गकरः प्रभुरिति थ. ध. पाठः॥ 12-358-31 नासिक्ये जन्मनीति थ.ध. पाठः॥ 12-358-42 रौत्र्याय मनवे ददाविति ध. ध. पाठः। सुव्रताय सुधन्वत इति ट. ध. पाठः॥ 12-358-44 ब्रह्मणो हरिमेधस इति ट. ध. पाठः॥ 12-358-49 युगादौ लोकसाक्षिणे इति ट. पाठः॥ 12-358-58 निर्मलो निष्कलस्तथेति ट. पाठः॥ 12-358-59 अतश्च प्रथितो राजन्पञ्चेन्द्रियसमीरिति इति थ. ध. पाठः॥ 12-358-63 कृतयुगप्राप्तिरीदृशैः कर्मवर्जितैरिति ट. ध. पाठः। आशीः कर्म काम्यंकर्म॥ 12-358-70 नारायणपरो मोक्ष इति झ. ट. पाठः॥ 12-358-72 यतयो मोक्षकाङ्क्षिण इति ट. ध. पाठः॥ 12-358-77 एनं राजसं ब्रह्मा पश्यति प्रवृत्तिमर्गि नियोजयतीत्यर्थः। ब्रह्मा रुद्रोऽथवा पुनरिति थ.ध. पाठः॥ 12-358-81 परस्परान्यान्येतानीति ट. पाठः॥ 12-358-87 धर्मः पुण्यः पार्थिवसत्तमेति थ. पाठः॥ 12-358-88 संसारकारकश्चैवेति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|